|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.204. अध्यायः 204
Mahabharata - Adi Parva - Chapter Topics
क्रोधाद्राजसु द्रुपदहननार्थमागतेषु राजसंमुखे भीमार्जुनयोः सज्जीभूय स्थितयोः सतोः कृष्णबलरामयोः संवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-204-0x(1138)(9014)
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्॥ 1-204-1(9015)
`ऊचुः सर्वे समागम्य परस्परहितैषिणः।
वयं सर्वे समाहूता द्रुपदेन दुरात्मना।
संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया॥' 1-204-2(9016)
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्॥ 1-204-3(9017)
अवरोप्येह वृक्षस्तु फलकाले निपात्यते।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते॥ 1-204-4(9018)
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्॥ 1-204-5(9019)
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते॥ 1-204-6(9020)
अस्मिन्राजसमवाये देवानामिव सन्नये।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्॥ 1-204-7(9021)
न च विप्रेष्वधीकारो विद्यते वरणं प्रति।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः॥ 1-204-8(9022)
अथवा यदि कन्येयं न च कंचिद्बुभूषति।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः॥ 1-204-9(9023)
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम्।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन॥ 1-204-10(9024)
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्॥ 1-204-11(9025)
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात्।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः॥ 1-204-12(9026)
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्॥ 1-204-13(9027)
तान्गृहीतशरावापान्क्रुद्धानापततो बहून्।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः॥ 1-204-14(9028)
`न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात्।
जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत॥' 1-204-15(9029)
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ॥ 1-204-16(9030)
ततः समुत्पेतुरुदायुधास्ते
महीक्षितो बद्धगोधाङ्गुलित्राः।
जिघांसमानाः कुरुराजपुत्रा-
वमर्षयन्तोऽर्जुनभीमसेनौ॥ 1-204-17(9031)
ततस्तु भीमोऽद्भुतभीमकर्मा
महाबलो वज्रसमानसारः।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो
निष्पत्रयामास यथा गजेन्द्रः॥ 1-204-18(9032)
तं वृक्षमादाय रिपुप्रमाथी
दण्डीव दण्डं पितृराज उग्रम्।
तस्थौ समीपे पुरुषर्षभस्य
पार्थस्य पार्थः पृथुदीर्घबाहुः॥ 1-204-19(9033)
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा।
विसिष्मिये चापि भयं विहाय
तस्थौ धनुर्गृह्य महेन्द्रकर्मा॥ 1-204-20(9034)
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा।
दामोदरो भ्रातरमुग्रवीर्यं
हलायुधं वाक्यमिदं बभाषे॥ 1-204-21(9035)
य एष सिंहर्षभखेलगामी
मदद्धनुः कर्षति तालमात्रम्।
एषोऽर्जुनो नात्र विचार्यमस्ति
यद्यस्मि संकर्षण वासुदेवः॥ 1-204-22(9036)
यस्त्वेष वृक्षं तरसाऽवभज्य
राज्ञां निकारे सहसा प्रवृत्तः।
वृकोदरान्नान्य इहैतदद्य
कर्तुं समर्थः समरे पृथिव्याम्॥ 1-204-23(9037)
योऽसौ पुरस्तात्कमलायताक्षो
महातनुः सिंहगतिर्विनीतः।
गौरः प्रलम्बोज्ज्वलचारुघोणो
विनिःसृतः सोऽप्युत धर्मपुत्रः॥ 1-204-24(9038)
यौ तौ कुमाराविव कार्तिकेयौ
द्वावाश्विनेयाविति मे वितर्कः।
मुक्ता हि तस्माज्जतुवेश्मदाहा-
न्मया श्रुताः पाण्डुसुताः पृथा च॥ 1-204-25(9039)
वैशम्पायन उवाच। 1-204-26x(1139)
तमब्रवीन्निर्जलतोयदाभो
हलायुधोऽनन्तरजं प्रतीतः।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं
पृथां विमुक्तां सह कौरवाग्र्यैः॥ ॥ 1-204-26(9040)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि चतुरधिकद्विशततमोऽध्यायः॥ 204 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|